|
|
 |
 |
|
|
५ उद्योगपर्व.jpg)
॥ श्रीः ॥
5.126. अध्यायः 126
Mahabharata - Udyoga Parva - Chapter Topics
पुनर्भीष्मद्रोणाभ्यां दुर्योधनंप्रति परेषां युद्धसंनाहात्पूर्वमेव तैःसह शमविधानम् ॥ 1 ॥
Mahabharata - Udyoga Parva - Chapter Text
वैशम्पायन उवाच। 5-126-0x(3762)(36035)
धृतराष्ट्रवचः श्रुत्वा भीष्मद्रोणौ समव्यथौ।
दुर्योधनमिदं वाक्यमूचतुः शासनातिगम् ॥ 5-126-1(36036)
यावत्कृष्णावसन्नद्धौ यावत्तिष्ठति गाण्डिवम् ।
यावद्धौम्यो न मेधाग्नौ जुहोतीह द्विषद्बलम् ॥ 5-126-2(36037)
यावन्न प्रेक्षते क्रूद्धः सेनां तव युधिष्ठिरः।
ह्रीनिषेवो महेष्वासस्तावच्छाम्यतु वैशसम् ॥ 5-126-3(36038)
यावन्न दृश्यते पार्थः स्वेऽप्यनीके व्यवस्थितः।
भीमसेनो महेष्वासस्तावच्छाम्यतु वैशसम् ॥ 5-126-4(36039)
यावन्न चरते मार्गान्पृतनामभिधर्षयन् ।
भीमसेनो गदापाणिस्तावत्संशाम्य पाण्डवैः ॥ 5-126-5(36040)
यावन्न शातयत्याजौ शिरांसि गजयोधिनाम् ।
गदया वीरघातिन्या फलानीव वनस्पतेः ।
कालेन परिपक्वानि तावच्छाम्यतु वैशसम् ॥ 5-126-6(36041)
नकुलः सहदेवश्च धृष्टद्युम्नश्च पार्षतः ॥
विराटश्च शिखण्डी च शैशुपालिश्च दंशिताः ॥ 5-126-7(36042)
यावन्न प्रविशन्त्येते नक्रा इव महार्णवम् ।
कृतास्त्राः क्षिप्रमस्यन्तस्तावच्छाम्यतु वैशसम् ॥ 5-126-8(36043)
यावन्न सुकुमारेषु शरीरेषु महीक्षिताम्।
गार्ध्रपत्राः पतन्त्युग्रास्तावच्छाम्यतु वैशसम् ॥ 5-126-9(36044)
चन्दनागुरुदिग्धेषु हारनिष्कधरेषु च ।
नोरस्सु यावद्योधानां महेष्वासैर्महेषवः ॥ 5-126-10(36045)
कृतस्त्रैः क्षिप्रमस्यद्भिर्दूरपातिभिरायसाः ।
अभिलक्ष्यैर्निपात्यन्ते तावच्छाम्यतु वैशसम् ॥ 5-126-11(36046)
अभिवादयमानं त्वां शिरसा राजकुञ्जरः ।
पाणिभ्यां प्रतिगृह्णातु धर्मराजो युधिष्ठिरः ॥ 5-126-12(36047)
ध्वजाङ्कुशपताकाङ्कं दक्षिणं ते सुदक्षिणः ।
स्कन्धे निक्षिपतां बहुं शान्तये भरतर्षभ ॥ 5-126-13(36048)
रत्नौषधिसमेतेन रत्नाङ्गुलितलेन च।
उपविष्टस्य पृष्ठं ते पाणिना परिमार्जतु ॥ 5-126-14(36049)
शालस्कन्धो महाबहुस्त्वां स्वजानो वृकोदरः । 5-126-15bसाम्नाऽभिवदतां चापि शान्तये भरतर्षभ ॥ 5-126-15(36050)
अर्जुनेन यमाभ्यां च त्रिभिस्तैरभिवादितः।
मूर्ध्नि तान्समुपाघ्राय प्रेम्णाऽभिवद पार्थिव ॥ 5-126-16(36051)
दृष्ट्वा त्वां पाण्डवैर्वीरैर्भ्रातृभिः सह संगतम् ।
यावदानन्दजाश्रूणि प्रन्मुञ्चन्तु नराधिपाः ॥ 5-126-17(36052)
घुष्यतां राजधानीषु सर्वसंपन्महीक्षिताम् ।
पृथिवी भ्रातृभावेन भुज्यतां विज्वरो भव ॥ ॥ 5-126-18(36053)
इति श्रीमन्महाभारते उद्योगपर्वणि भगवद्यानपर्वणि षड्विंशत्यधिकशततमोऽध्यायः ॥
Mahabharata - Udyoga Parva - Chapter Footnotes
5-126-2 मेधाग्नौ संग्रामाग्नौ । मेघो यज्ञः ॥ 5-126-3 वैशसं वैरम् ॥

|
 100000 shlokas.jpg)
|
|
"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshoati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India. |
| |
| |
|
|
| |
|
|
| |
|
|